OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 20, 2017

बेंगलूरु-मैसूरु प्रधानमार्गेषु विद्युत् बस् यानानि गमनागमनार्थं सन्नद्धानि।
          बेंगलूरु> मैसूरु - बेंगलूरु मार्गेषु कर्णाटकसर्वकारस्य विद्युत्यानानि आगमिष्यन्ति। एतदर्थं पञ्चाशत् (५०) बस् यानानि क्रेतुं निश्चिम् अस्ति। मैसूरुदेशतः तुमकूरु, हासन्, कोलार् देशान् प्रति प्रतिदिन यात्राम् आयोजयिष्यते।  योजनायाः समारम्भेन राज्यान्तर नगरयात्रायै विद्युद् यानस्य उपयोगं कुर्वतां मध्ये प्रथमराज्यम् भविष्यति कर्णाटकम्।  
         अन्तरिक्षमलिनीकरणं न्यूनीकर्तुमुद्दिश्य भवति एतादृशानां बस्यानानाम् अवतारणम्।  बस्यानस्य क्रयणं सम्बन्ध्य  विविध चीनासंस्थाभिः सह चर्चां कुर्वन् अस्ति इति कर्णाटकयानविभागस्य निर्देशकः उमाशङ्करः अवदत्। एकवारं कृतविधुत्प्रेरणया द्विशतं (२००) किलोमीट्टर् पर्यन्तं गमिष्यन्ति इमानि यानानि।
         केन्द्रसर्वकारस्य आर्थिकसाहाय्येन एव योजनेयं प्रचाल्यते। यानस्य एकस्य कृते पञ्चाशीति (८५)लक्षं रुप्यकाणि एव सहायधनम्। ४०% धनं कर्णाटकसर्वकारेण संवहति। शिष्ट-भागः गतागत-विभाग-संस्थया वोढव्या। डीसल्तैलयानापेक्षया अनुरक्षणव्ययः न्यूनः इत्यनेन वैद्युतयानानि एव लाभकराणि।