OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, December 8, 2017

संस्कृतछात्र-शिल्पशाला सम्पद्यते।
         कोच्ची> केरलसर्वकारस्य शिक्षाविभागेन आयोजिताः संस्कृत-छात्रशिल्पशालाः विविध-जनपदस्तरेषु  प्रचलन्ति। छात्राणां मनसि संस्कृताभिमुख्यम् उद्पादयितुम् उद्दिश्य  आस्वाद्यरीत्या एव कार्यक्रमः आयोजितः।
        भारते संस्कृतशिक्षाक्षेत्रे प्रथमकक्ष्यातः अरभ्य संस्कृताध्ययनाय  सन्दर्भः केरलराज्ये एव इति विशेषताप्यस्ति। प्रथम कक्ष्यातः संस्कृताध्ययनम् आरभ्य इदानीं संवत्सरचतुष्टयं  सम्पन्नमस्ति। आयुर्वेदादि विषयेषु केरल राज्यस्य अधीशत्वस्य कारणमपि  जनानां संस्कृतानुरागः एव।