OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, December 3, 2017

अप्रत्यक्षाः धीवराः सुरक्षिताः। 
            मुम्बई > ओखी चक्रवातप्रभावेन केरलतीरात् अप्रत्यक्षाः ६६ मत्स्यबन्धननौकाः महाराष्ट्रायां नौकाशयेषु सुरक्षिताः प्राप्ताः। रक्षामन्त्रिण्या निर्मलासीतारामवर्यया इयं वार्ता 'ट्विटर्'द्वारा निगदिता पञ्चाशत् नौकाः कोष़िक्कोट् जनपदस्य बेप्पूर् प्रदेशतः प्रस्थिताः सन्ति। अनन्तपुरीतः मत्स्यबन्धनार्थं प्रस्थिताः कतिपयाः नौकाः तत्रस्थाः विंशत्यधिकशतमभितः धीवराश्च गोवा-महाराष्ट्रातीरेषु सन्दृष्टाः। 
    महाराष्ट्रमुख्यमन्त्रिणः देवेन्द्र फट्नस् वर्यस्य निर्देशानुसारं रक्षाप्रवर्तनं कृत्वा धीवराणां कृते  भोजन-वासादिभ्यः व्यवस्थाः कृताः।