OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 20, 2019

जनसङ्ख्या - भारतं प्रथमस्थाने भविष्यति।
    न्यूयोर्क् > अष्टसंवत्सरेभ्यः परं भारतं जनसङ्ख्याक्रमे चीनम् अतिक्रम्येत इति यू एन् राष्ट्रतः आवेदनम्। इदानीं प्रथस्थाने चीनादेशः भवति। २०१९- २०५० कालेषु चीनस्य जनसङ्ख्यायां ३.१४ कोटि जनानां न्यूनता भविष्यति इति आवेद्यते। World population prospects 2019 इति आवेदने अस्ति ईदृशी सूचना। 
  २०५० संवत्सरे विश्वजनसंख्या ७७० कोटीतः ९७० कोटि इति वर्धनं भविष्यति। तदा भारतेन सह नवराष्ट्रेषु भविष्यति जनसंख्यायाः अर्धभागः। भारतम् अतिरिच्य नैजीरियम्, पाकिस्थानम् कोङ्गो, एत्योपिय, टान्सानिय, इन्दोनेष्य, ईजिप्त्, अमेरिक्क इत्यादीनि  राष्ट्राणि भवन्ति एते। तदानीं भारतस्य जनसंख्या द्विगुणिता भविष्यति। तथा मनुष्याणाम् आयुर्देर्घ्यं ७२.६तः  ७७.१ इति भविष्यति।