OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 14, 2019

स्वकीय-बाह्याकाशनिलयस्थापनाय भारतस्य ऐ ए स् आर् ओ।
   नवदिल्ली> भारतीय बाह्याकाशानुसन्धान संस्थया (इस्रो)स्वकीय बाह्याकाशनिलयस्थापनाय योजना सज्जीक्रियते। मानवं बाह्याकाशं प्रेषयितुं निश्चितं गगनयान योजनायाः सफलतानन्तरं बाह्याकाश निलयस्य निर्माणसंबन्धी  नूतनी योजना सर्वकाराय समर्प्यते इति 'इस्रो' संस्थायाः निर्देशकः डा. के शिवः अवदत्‌। सूक्ष्मगुरुत्वबल (micro gravity) -परीक्षणाय लघूपकरणमपि विक्षिप्यते इति सः वार्तामाध्यमान् प्रति अवदत्।
    ऐ एस् आर् ओ संस्थया सङ्कल्पितस्य बाह्याकाशनिलयाय २० 'टण्' भारः भविष्यति। अस्य निलयस्य भ्रमणपथः भौमोपरितलात् ४०० किलोमीट्टर् दूरे निश्चितः अस्ति। १५ तः २० दिनपर्यन्तम् अनुसन्धातृभ्यः अस्मिन् वासं कर्तुं शक्यते।