OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 10, 2019

शान्तिपूर्णवातावरणस्य सृष्टिः पाकिस्थानेन करणीया -अमेरिका
     वाषिङ्टण्> दक्षिणेष्याराष्ट्रेषु शान्तिपूर्ण-वातावरणस्य सृष्टेः उत्तरदायकः पाकिस्थानः इति अमेरिक्केन उक्तम्। पाकिस्थानं केन्द्रीकृत्य प्रववर्तमानान् आतङ्कवाददलान् निर्वीर्यं कर्तुं पाकिस्थानाय उत्तरदायित्वमस्ति इति अमेरिकेनोक्तम्। भारतेन सह शान्ति चर्चायै सज्जः इति पाकिस्थानस्य प्रधानमन्त्रिणः इम्रान् खानस्य सूचनानन्तरम् आसीत् अमेरिक्कस्य ईदृशोक्तिः।
   पाकिस्थाने प्रवर्तमानाः आतङ्किनः गृह्णीयाः। आतङ्क-प्रवर्तनेन सह शान्तिचर्चा न शक्यते। भीकरदलीयानां स्वतन्त्रविहाराय  पाकिस्थाने कृताः अवसराः  स्थगनीयाः इत्यपि अमेरिक्कस्य प्रतिनिधी पि टि ऐ वार्ता-संस्थां प्रति अब्रवीत्।