OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 23, 2019

आतङ्किभ्यः आर्थिक साहाय्यलब्धिं निरुद्ध्य पाकिस्थानः प्रक्रमः स्वीकरणीयः इति भारतम्।
    नवदिल्ली> आतङ्कवादिभ्यः दीयमानां आर्थिकसाहाय्यलब्धिं निरुद्ध्य पाकिस्थानेन प्रक्रमः स्वीकरणीयः इति पाकिस्थानं प्रति भारतम् आवदत्।  आतङ्वादिभ्यः सुलभतया लभ्यमानं आर्थिकसाहाय्यलब्धिं रोद्धुं  प्रयतमानायाः फिनान्षियल् आक्षन् टास्क् फोर्स् (FTF) इति अन्तराष्ट्रसंस्थायाः निर्देशाः यथाकालं करणीयाः  इति च भारतेन अभ्यर्थितम्। प्रक्रम स्वीकरणे विलम्बः चेत्‌  प्रत्याघातान् स्वीकर्तुं सज्जा भवतु इति  FTF संस्थया पकिस्थानाय पूर्वसूचना  प्रदत्ता आसीत्। ओक्तोबर् मासात् पूर्वं पाकिस्थानेन निर्देशाः पालनीयाः। नो चेत् पाकिस्थानं श्यामसूचिकायां कल्पयिष्यते। एवं चेत् एवं चेत् आर्थिकसमस्यया मथ्यमानेन पाकिस्थानेन अन्ताराष्ट्रस्तरात् आर्थिकसाहाय्यं लब्धुं इतःपरं अधिकः क्लेशः अभिमुखीक्रियेत।