OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 16, 2019

बिहारे अङ्गारकवातेन ६१ जनाः मृताः। 
   पाट्न > बिहार राज्ये अङ्गारकवातेन ६१ जनाः मृताः। २५ होराभ्यन्तरे आसीत् इयं घटना। शताधिकाः आतुरालयं प्रविष्टाः। वार्ताहर-संस्थया ऐ एन् एस् द्वारा आवेदनम् प्रकाशितम्। मृतेषु भूरि जनाः औरङ्गबाद् , गय, नवाडा जनपदेषु विद्यमानाः भवन्ति। प्रदेशेस्मिन् शनिवासरादारभ्य ४५ डिग्रि सेल्ष्यस् भवति तापमानम्। शनिवासरे रात्रिपर्यन्तम् उष्णवायुतरङ्गेण २७ जनाः मृत्युमुपगताः इति औरङ्गबादस्य  'सिविल् सर्जन्' डा सुरेन्द्रप्रसादेन उक्तम्। संख्याधिकाः जनाः आतुरालये वर्तन्ते इत्यपि तेनोक्तम्। अस्यां घटनायां मुख्यमन्त्री नीतीष्कुमारः स्वदुःखं प्रकाशितवान्।  मृतानां कुटुम्बाय सः ४ लक्षं रूप्यकाणि समाश्वासधनं प्रख्यापितवान्।