OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 9, 2019

दुबाय् राष्ट्रे बस् यानदुर्घटना १२भारतीयाः अभिव्याप्य १७ मृताः। 

ओमानतः दुबाय् प्रति आगतं यानं दुर्घटितम्। ११ भारतीयानां मृतदेहाः स्वदेशं नीताः। 
दुबाय् > गते गुरुवासरे दुबाय् राष्ट्रम् असाधारणेन दुर्घटनेन प्रकम्पितम्। सायं पादोनषड्वादने दुबाय् मध्ये 'मुहम्मद् बिन् सायिद्' मार्गे राषिदिय नामके स्थाने मस्कटतः दुबाय् प्रति आगतं बस्यानं दुर्घटनाविधेयमभवत्। ३१ यात्रिकाः याने आसन्। रमदान् विरामकालाघोषाय मस्कट् गत्वा प्रतिनिवर्तमाना आसन् ते। चालकस्य अश्रद्धा तथा अतिशीघ्रता च दुर्घटनाकारणमिति मन्यते। 
   मृतेषु १२ भारतीयेषु ८ केरलीयाः, अन्ये महाराष्ट्रियाश्च। द्वौ पाकिस्थानीयौ, एकः ओमानीयः, एकः अयर्लान्ट् देशीयः, एकः फिलिप्पीन्स् देशीयश्च मृत्युमुपगताः अन्ये यात्रिकाः। 
  ११ भारतीयानां मृतशरीराणि स्वस्वदेशं नीतानि। मृतस्य कस्यचन मुम्बई स्वदेशीयस्य शरीरं दुबाय् मध्ये एव संस्क्रियते। तदर्थं बान्धवाः दुबाय् प्राप्ताः। भारतीयानां मृतशरीराणि निश्शुल्केनैव 'एयर् इन्डिया' विमाने भारतं नीतानि।