OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 4, 2019

मन्त्रिपदनियोग स्वीकरणाय द्विचक्रिकायाम्  समागतवान् भारतस्य स्वास्थ्यमन्त्री।
  नवदिल्ली> विश्व-द्विचक्रिका-दिनस्य प्राधान्यत्वात् आदर्शरूपो भूत्वा स्वस्य नियोगस्वीकरणाया द्विचक्रिकाम् आरुह्य आगतवान् मन्त्री। १७ तम लोकसभायां स्वास्थ्य-मन्त्रिपदे नियुक्तः डा. हर्षवर्धनः भवति एषः। स्वस्य गृहतः कार्यालयं प्रति कार्यालयतः गृहं प्रति प्रतिदिनं द्वि चक्रिकया गन्तुम् इच्छति इति सः अवदत्। जनानां मनसि स्वास्थ्यविषये चिन्ता उद्‌पादयितुम् अनेन शक्यते इत्यपि मन्त्री अवदत्। परिस्थित्यनुकूल यानं द्विचक्रिका एव भवति। तस्य विनोदः द्विचक्तिका चालनं च, इति टिट्वर् मध्ये तेन लिखितम्।