OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 16, 2020

 विश्वस्य बृहत्तमं वाणिज्यप्रतिज्ञापत्रम् हस्ताक्षरीकृतम्। 

चीनः १५ एष्यापसफिक् राष्ट्राणि च सहकारिणः।

 


  बेय्जिङ्> चीनेन सह १५ एष्यापसफिक् राष्ट्राणि च मिलित्वा वाणिज्यप्रतिज्ञापत्रे हस्ताक्षरं कृतम्।  विश्वस्य बृहत्तमं स्वतन्त्र-वाणिज्य-प्रतिज्ञापत्रम् (आर्. सि. ई. पि) भवति इदम्। चीनस्य दशवर्षाणां प्रयत्नः एव इदानीं सफलीकृतः। २०१२ तमे असियान् शिखरसम्मेलनस्य अन्ते आसीत् हस्ताक्षरीकरणम्। भारतं सन्धीतः प्रतिनिवृत्तः अभवत्।  विगतानि अष्टवर्षाणियावत् प्रचालिते सूक्ष्मातिसूक्ष्म चर्चायाः अन्ते सन्धिः इदानीं सफलता प्राप्ता इत्यनेन वयं सन्तुष्टाः इति वियट्नामस्य प्रधानमन्त्री गुयिन् सुवान् फुक् इत्याख्यः अवदत्। जापानतः ओस्त्रेलिय- न्यूसिलान्ट् पर्यन्तं विद्यमानानां राष्ट्राणाम् अर्थिकसमन्वयः अनेन लक्षीक्रियते।