OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 25, 2020

 पादकन्दुकप्रभुः डीगो मरडोणः निर्यातः। 

     विश्वपादकन्दुकक्रीडायाः आराधकानामीश्वरः इति स्तुत्यमानः दीगो मरडोणः दिवंगतः। षष्टिवयस्कः सः हृदयाघातेनैव मृत्युमुपगतः इति स्थिरीकरणमागतम्। 
  कतिपयदिनेभ्यः पूर्वं तस्य षष्ट्यब्दपूर्तिः आविश्वं जनैः आघुष्टमासीत्। अचिरेणैव मस्तिष्के रक्तस्रावहेतुना शस्त्रक्रियाविधेयः आसीत्। स्वास्थ्यमुपगतः सः गृहं प्रत्यागतवानासीत्। अर्जन्टीनराष्ट्रस्य पादकन्दुकदलस्य नेता आसीत्। वारचतुष्टयं सः अर्जन्टीनाराष्ट्रस्य कृते विश्वचषकपादकन्दुकस्पर्धायां भागभागित्वं कृतवान्। १९८६ तमे वर्षे तेन कृतेन लक्ष्यकन्दुकेन अर्जन्टीनं विश्वविजयिनमकरोत्। तत्र तेन प्राप्तं लक्ष्यकन्दुकद्वयं 'ईश्वरस्य हस्तेन प्राप्तम्' 'शताब्दस्य लक्ष्यकन्दुक'मिति च प्रसिद्धमभवत्।