OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 21, 2020

 एषः इक्षुचोरः - निलीनस्य  कलभस्य चित्रम् विश्वस्मिन् व्याप्तम्।

 बाङ्कोक्> इक्षुकेदारे चोरणाय समागतः कलभः गृहीतः। ताय् लान्टस्य  चियाङ् माय प्रदेशे भवति इयं रसकरी घटना। इक्षुखादनाय रात्रौ एकाकी भूत्वा इक्षुकेदारे प्रविष्टवानऽयं गजसूनुः।  किन्तु कृषकाणां शब्दं श्रुत्वा विद्युद्स्तंभस्य पृष्टतः निलीनः अतिष्टत्। किन्तु तस्य प्रयत्नः विफलम् अभवत्, कृषकाः करदीपं प्रकाशितवन्तः। इदानीं निलीनस्य कलभस्य चित्रम् वार्तामाध्यमेषु प्रसृतं वर्तते।