OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 30, 2020

 ब्रह्मपुत्रनद्यां सेतुनिर्माणाय चीनः सज्जः। भारतस्य जल-वितरणे बाधा भविष्यति ? 

    नवदिल्ली> टिबट् प्रविश्यायां प्रवहन्त्यां ब्रह्मपुत्रनद्यां सेतुनिर्माणाय चीनः सज्जः इत्यस्ति नूतनम् आवेदनम्। आगामि संवत्सरे समारम्भणीया पञ्चवत्सरीया पद्धतिः निश्चिता वर्तते। तस्यां जलविद्युदुत्पादनयोजना अपि अन्तर्भूता अस्ति इति आवेदनम् आगच्छति। चीनस्य वार्तमाध्यम् ग्लोबल् टैंस् पत्रिकया एव वार्तेयं प्रकाशिता। पवर् कण्स्ट्रक्षन् कोरपरेषन् चीन इत्यस्य अध्यक्षषेण यान् स्योगेन उक्तमिति आवेद्यते पत्रिकया। ब्रह्यपुत्रस्य प्रवाहस्य स्थगनाय भवति चीनस्य अयं प्रक्रमः। भारतस्य अरुणाचलप्रदेश-असं - मेघालयः -सिक्किं -नागलान्ट-पश्चिमबङ्गालराज्येषु प्रधानतमा जलवाहिनी भवति एषः ब्रह्मपुत्रः।