OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 28, 2020

कृषकसञ्चलनं दिल्लीं प्रविष्टम्। 
प्रतिरोधः विफलः। 
    नवदिल्ली> सर्वकाराणां सर्वविधप्रतिरोधानतिक्रम्य कृषकाः राष्ट्रराजधानीं प्रविष्टवत्। All India Kisan Sangharsh Coordination Committee नामकसंघटनस्य 'दिल्ली चलो' इत्युपरोधान्दोलनस्य अंशतया पञ्चाबः , हरियाणम् इत्यादिभ्यः राज्येभ्यः सहस्रशः कृषकाः गुरुवासरादारभ्य दिल्लीसीमायां शिबिरमध्यास्य वर्तितवन्त आसन्। 
   दिल्लीस्थे बुराडिस्थाने वर्तमानं 'निरङ्कारि' क्रीडाङ्कणं प्राप्य उपरोधान्दोलनं कर्तुम् अनुज्ञा लब्धा। कृषकैः सह डिसम्बर् तृतीये दिने चर्चां कर्तुं केन्द्रकृषिमन्त्री नरेन्द्रसिंहतोमरः सन्नद्धतां प्राकशयदपि कृषकसमितिनेतारः न प्रत्युत्तरवन्तः।