OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 21, 2020

भारते सर्वेषां कृते एप्रिल् मासे कोविड् वाक्सिन् उपलप्स्यते। 
    पूने> ओक्स् फड् संस्थया साक्षात्क्रियमाणं कोविड्वाक्निौषधं आगामि एप्रिल् मासादारभ्य भारते सर्वेषां कृते उपलब्धुं शक्यते इति पूणेस्थस्य 'सिरम् इन्स्टिट्यूट' इत्यस्य अधिकारिणा अदार् पुनावाला इत्यनेन निगदितम्। वरिष्ठनागरिकेभ्यः स्वास्थ्यप्रवर्तकेभ्यश्च फेब्रुवरिमासे लप्स्यते। 
  रोगप्रतिरोधसूचीप्रयोगाय अपेक्षितस्य मात्राद्वयस्य औषधस्य सहस्ररूप्यकं मूल्यं कल्प्यते। २०२४ तमात् पूर्वं भारते प्रतिरोधसूचीप्रयोगं पूर्तीकर्तुं  शक्ष्यति इति अदारवर्यः प्रत्याशां प्राकटयत्।