OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 11, 2022

 गिनिसमुद्रे पण्यमहानौका प्रतिरुद्धा - १६ भारतीयैः सह २६ सेवकाः साहाय्यमपेक्षन्ते।

कोच्ची> समुद्रसीमा उल्लंघनमकरोत् इत्यारोप्य गिनि नामकेन आफ्रिक्काराष्ट्रेण प्रतिरुद्धायां पण्यवस्तुयुक्तायां महानौकायां कर्म कुर्वन्तः २६ महानौकाकर्मकराः गतमङ्गलवासरादारभ्य कारागारवासलुल्यं जीवनमनुभवन्ति। कर्मकराणां मध्ये   १६ भारतीयाः अपि अन्तर्भूताः सन्ति। एतान् नैजीरियां नेतुं तद्राष्ट्रस्य सेनया प्रयत्नः आरब्धः। 

  नोर्वे आस्थानभूतायाः 'ओ एस् एम्' नामकसंस्थायाः स्वामित्वे वर्तमानं हेरोयिक्

ऐडन् नामकं समुद्रयानं भवति गिनिराष्ट्रेण प्रतिरुद्धम्।  दक्षिणाफ्रिक्कातः प्रस्थाय नैजीरियायां क्रूडोयिल् इन्धनं पूरयित्वा नेतरलान्ट् राष्ट्रं प्राप्तुमेव समुद्रयानस्य लक्ष्यम्। किन्तु मङ्गलवासरे नैजीरियासमीपं प्राप्तस्य समुद्रयानस्य नौकापत्तनं प्राप्तुं अनुज्ञा न लब्धा। अतः अन्ताराष्ट्रमहानौकामार्गे एव स्थितम्। एतदवसरे नैजीरियासेनायाः महानौका आगत्य तामनुगन्तुं निर्देशः दत्तः। किन्तु समुद्रतस्कराः इति विचिन्त्य तामनुगमनं न कृतम्। परं गिनियाराष्ट्रस्य सीमां प्रति प्रस्थितम्। अन्ताराष्ट्रीयसमुद्रसीमामुल्लङ्घितमित्यारोप्य गिनियाधिकारिणः २६ महानौकाकर्मकरान् निगृहीतवन्तः।