OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 5, 2022

 भारतम् अग्निशस्त्रपरीक्षणाय सज्जा; गुप्तचरमहानौकां प्रेषयन् चीनः। 

नवदिल्ली> भारतस्य अग्निशस्त्रपरीक्षणाय दिनेषु अवशिष्टेषु भारतमहासमुद्रे चीनस्य  गुप्तचरमहानौका।  अग्निशस्त्रपरीक्षणानि उपग्रहाणां चलनानि च गूढेन निरीक्षितुं चीनीयनाविकसेनायाः 'युवान् वाङ् ६' इति महानौका बालितीरं सम्प्राप्तम्। 

  २२०० कि मी सञ्चरितुं शक्तमग्निशस्त्रं ओडीषातीरस्थितात् अब्दुल् कलामद्वीपात् नवंबर् दशमे वा एकादशे दिनाङ्के विक्षिप्यते इति मन्यते। अग्निशस्त्रस्य मार्गः, वेगः, सूक्ष्मता इत्यादीनां सूचनाः चीनाय लभन्ते वा इत्याशङ्कायां भवति भारतम्।