OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 19, 2022

साहाय्यनिधिः निर्णयरहिता अभवत्। वातावरण-शिखरसम्मेलनं दीर्घितम्।

COP 27


षरम् अल् षेय्ख्> ईजिप्तस्थे षरम् अल् षेय्ख् इति स्थाने आयोजिते COP 27 इति वातावरण-शिखरसम्मेलनं शनिवारपर्यन्तं दीर्घितम्। आगोलतापाधिक्यात् दुरितबाधितेभ्यः विकस्वरराष्ट्रेभ्यः धनसाहाय्यं दातुं निर्णयस्वीकरणे विलम्बः भविष्यति इत्यासीत्    शिखरमेलनस्य दीर्धीकरणहेतुः। 


समुद्रस्य जलवितानम् क्रमेण उन्नतिं प्राप्नोति इत्यनेन द्वीपराष्ट्राणि भीषायां सन्ति। प्रकृतेः दुरन्तेन ऋणबन्धने पतितान् राष्ट्रान् उद्धर्तुम् आसीत् धनराशिसाहाय्यम्। किन्तु साहाय्यदाने विकसितराष्ट्राणाम् अभिप्रायभिन्नता एव वर्तते।