OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 9, 2022

 ६९ वयस्काया शुभाङ्गी आप्टे महाभागया १०२ विश्वाभिलेखाः सम्प्राप्ताः।


रायपुरम्> सामान्येन एका विश्वाभिलेखप्राप्तिः अपि दुर्लभा भवति। किन्तु रायपुरस्था ६९ वयस्कया शुभाङ्गी आप्टे महाभागया १०२ विश्वाभिलेखाः सम्प्राप्ताः इति अश्चर्यजनकः एव। २००५ संवत्सरादारभ्यः विभिन्नवस्तुनः सञ्चयं कृत्वा प्रथमविश्वाभिलेखः प्राप्तवती। तदनन्तरं २००८ संवत्सरे ३५०० कङ्कणवलयानां सञ्चयनेन लिंका बुक् आफ् वेर्ल्ड् इत्यस्मिन् स्वनामाङ्कनं कारितम्। संवत्सरत्रयात् पूर्वं शुभांगी १४५ वारं यात्रां कृत्वा विश्वाभिलेखपुस्तके स्वनाम प्रावेशयत्।


चैंपियन्स् बुक् ऑफ वेर्ल्ड् रिकार्ड् इत्यत्रापि  तस्याः नाम योजितं वर्तते। लिंका बुक् आफ् वेर्ल्ड् रेकोर्ड् इत्यस्मिन् 22, इन्ट्या बुक्  आफ् रेकोर्ड् इत्यस्मिन् 22, एश्या बुक् आफ् वेर्ल्ड् रेकोर्ड् इत्यस्मिन् 3  गोल्डन् बुक् ऑफ् वेर्ल्ड् रिकार्ड् इत्यस्मिन् 2, अस्सिट् वेर्ल्ड् रिकार्ड् इत्यस्मिन् 6 अपि च ए होप् इंटर्नेशनल वेर्ल्ड् रिकार्ड् इत्यस्मिन् 16, अन्यस्मात् अभिलेखसंस्थायाः अनया 24 अभिलेखाः च सम्प्राप्ताः। आहत्य इदानीं 102 अभिलेखाः स्वस्य सुकर्मणा  प्राप्ताः।