OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 19, 2022

 संस्कृतप्रणयभाजनं पि टी कुरियाक्कोस् मास्टर् अनुस्मरणं सम्पन्नम्। 

 वैयाकरणः डो पि नारायणन् नम्पूतिरिः समादृतः॥


 पावरट्टी साहित्यदीपिकायाः संस्कृत  विद्यालयसंस्थापकस्य संस्कृतप्रणयभाजनस्य पि टी कुरियाक्कोस् मास्टर् वर्यस्य अनुस्मरणं

तन्नाम्नि आयोजितस्य पारितोषिकस्य समर्पणञ्च सुसम्पन्नम् । गुरुवायूर परिसरे समायोजितां सभां

केन्द्रीयसंस्कृत-विश्वविद्यालयस्य  कुलपतिः  प्रो : श्रीनिवासवरखेडी वर्यः उदघाटयत्।  संस्कृतअक्कादम्याः अध्यक्षः डा. के टी माधवन् अध्यक्ष-पदमलङ्कृतवान्। कोषिक्कोट् विश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्षपदाद् विरताय डो पि नारायणन् नम्पूतिरिमहोदयाय तेन पुरस्कारश्च समर्पितः।  25000 रूप्यकाणि प्रशस्तिपत्रं फलकं च भवति पुरस्कारस्वरूपम् ।


     कालटी श्रीशङ्कराचार्य संस्कृत विश्वविद्यालयस्य कुलपतिः  डा
एम वी नारायणः मुख्यं भाषणमकरोत्। प्रो. के एल् सेबास्थ्यन् कुरियाक्कोस् मास्टर् अनुस्मरणप्रभाषणं निरवहत्। डा. पि सी मुरलीमाधवन्    गुरुवायूर्  केन्द्रस्य  निदेशकः डा ललितकुमार साहु   डा. सी टी फ्रान्सीस्   डा. एम् वी नटेशन्  गुरुवायूर देवस्वम् अध्यक्षः डा. वि के विजयन्  अध्यापकप्रतिनिधयः  छात्रप्रतिनिधियश्च भाषितवन्तः।


       पुरनाट्टुकरायां समायोजिता अनुसमरणसभा अन्यूना प्रौढोज्वला चासीत्। प्रतिवर्षम् अनुस्मणं तथा पुरस्कारसमर्पणम् च प्रचलिष्यतीति आयोजकाः अवदन्।