OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 29, 2022

 गुजराते निर्वाचनस्य प्रथमचरणं गुरुवासरे ; सघोषप्रचरणम् समाप्तम्। 

अहम्मदाबाद्> गुजरातराज्ये विधानसभानिर्वाचनस्य प्रथमचरणं गुरुवासरे विधास्यति। आहत्य १८२ मण्डलेषु ८९ स्थानेष्वेव  गुरुवासरे मतदानं भविष्यति। तदर्थं सघोषप्रचारणं अद्य समाप्तम्। १४ जनपदेषु ९३ मण्डलेषु डिसम्बरमासस्य पञ्चमे दिने द्वितीयचरणत्वेन मतदानं विधास्यति। अष्टमदिनाङ्के फलं विज्ञापयिष्यति च। 

  गुजराते शासनदलं भा ज पा तथा विपक्षदलं कोण्ग्रस् च मुख्यतया स्पर्धेते। ए ए पी दलञ्च बलपरीक्षणे अस्ति।