भक्तजनसहस्राणां हृदयेषु आनन्दं जनयन् पोन्नम्बलमेट्टे मकरज्योतिः ज्वलितः।
शबरिमला> शास्तारं द्रष्टुं शबरिगिरिमारुह्य आगतेषु भक्तजनहृदयेषु परमसायुज्यं प्रददन् पोन्नम्बलमेट् गिरौ मकरज्योतिः ज्वलितः। श्यामायमानानि शबरिमलकाननानि शरणमन्त्रैः मुखरितानि। सायं सन्ध्यायां सार्धषट्वादने मन्दिरस्य श्रीकवाटं उद्घाटितम्। तदनन्तरं भक्तजनाः शरणमन्त्रैः साकं पोन्नम्बलमेट् गिरौ त्रिवारं मकरज्योतिं दृष्टवन्तः।
.jpg)