OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, January 28, 2023

 डो. मुत्तलपुरं मोहनदासः दिवंगतः।

कोच्ची> भारतस्य संस्कृतक्षेत्रे विशिष्य केरलस्य संस्कृताध्ययनाध्यपनमण्डले विराजमानः  संस्कृतपण्डितः, कविः, बालसाहित्यकारश्च डो    मुत्तलपुरं मोहनदासः गतदिने आस्ट्रेलियायां दिवंगतः। ६७ वयस्क आसीत्।  बन्धुजनसन्दर्शनार्थं सकुटुम्बम्  आस्ट्रेलियां प्राप्तः सः स्वदेशीयेन सुहृदा सह मेलनावसरे देहास्वास्थ्यमनुभूय आतुरालयस्य तीव्रपरिचरणविभागं प्रविष्ट अपि प्राणरक्षणं न शशाक।

  महात्मागान्धिविश्वविद्यालये दीर्घकालम् अध्यापनवृत्तिं स्वीकृतवान् सः 'डयट्' संस्थायाः अध्यापकछात्रपरिशीलनविभागात् सेवानिवृत्तोSभवत्। 

४० संवत्सराणि यावत् कविताः कथाश्च विरचयन् कैरल्याः संस्कृतस्य बालसाहित्यमण्डले विख्यातः  आसीत्। संस्कृतभाषायां तेन  विरचिताः कविताः गानानि च छात्रेषु सहृदयेषु च आमोदपूरितानि वर्तन्ते। केरलसर्वकारस्य पाठ्यपुस्तकरचनासमित्यौ वरिष्ठांगः आसीत्। तेन विरचितानि लेखनानि बालकविताश्च बहुषु कक्ष्यासु पाठपुस्तकेषु स्थानमावहन्ति स्म। 

  कैरल्यां विख्यातं 'रमणन्' इति खण्डकाव्यं संस्कृभाषाम् अनूद्य सः वेदिकासु अवतारितवान्। 'मधुभाषित'मिति संस्कृतचलच्चित्राय गानरचनां कृतवान्। यात्राविवरणमण्डले अपि सः स्वसामर्थ्यं प्रकटितवान्। यूट्यूब् सङ्केतमुपयुज्य तेन प्रकाशिताः नैकाः सर्गविस्मयाः सहृयहृदयावर्जकाः वर्तन्ते। अधुनापि आस्ट्रेलियासन्दर्शनमधिकृत्य यात्राविशेषान् प्रकाश्य अन्त्यदिनेष्वपि कर्ममण्डले व्यापृतः आसीत्।