OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 1, 2023

 अमेरिक्कायां हिमपातः शाम्यति; एतावत्पर्यन्तं ५४०कोटि डोलर् परिमितस्य नष्टानि। 

वाषिङ्टणः> यू एस् राष्ट्रे साप्ताहिकाधिकतया अनुवर्तमानस्य हिमपातस्य शीतप्रचण्डवातस्य च अल्पेन शमनमनुभूयते। हिमशिलाः द्रवीकर्तुमारभन्त इत्यतः तिरोभूतानां पौराणां  कृते अन्वेषणमूर्जितं कारितम्। ४२ राज्येषु ५४० कोटि डोलर् परिमितस्य नष्टानि अभवन्निति अधिकारिणां गणना। 

  बहुषु प्रदेशेषु गमनागमनसुविधां पुनःस्थापयितुं प्रयत्नः आरब्धः। जनसंख्याधिकयुक्तेषु नगरेषु यानचालननिरोधः अपाकृतः।  सुरक्षासैनिकाः प्रतिगृहं सन्दर्शयन्तः पानजल-विद्युदादीनां लभ्यतां दृढीकुर्वन्तः सन्ति। 

  केवलं न्यूयोर्के ४० मरणानि आवेदितानि। १९७७ तमे वर्षे अमेरिक्कायां दुरापन्नात् हिमपात-शीतप्रचण्डवातात् तीव्रमासीत् ऐषमः इति सूच्यते।