OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 31, 2023

 २०३० संवत्सरे आकाशदृश्यम् भीतिदं भविष्यति। विक्षिप्तोपग्रहाणाम् आधिक्येन हानिं जनयिष्यति इति वैज्ञानिकाः।

    भूमिं परितः राशीकृतानां कृत्रिमोपग्रहाणां संख्या बाह्याकाश-वैज्ञानिकानुसन्धान् प्रबाधते इति पूर्वसूचना 'नास'या दत्ता। रात्रिकाले आकाशे नक्षत्राणां निरीक्षणं ज्योतिर्विज्ञान विशारदानां श्रमकरं कर्म भविष्यति इति वैज्ञानिकैः पूर्वसूचना प्रदत्ता। ८००० कृत्रिमोपग्रहाः भूमिं भ्रमणं कुर्वन्ति इति गणयति। २०१९ संवत्सरानन्तरं उपग्रहाणां वर्धितसंख्या चतुर्गुणिता अभवत्। आराष्ट्रं ४ लक्षं उपग्रहेभ्यः अधोभूमिपरिमण्डले ( Low earth orbit) अनुमतिः दत्ता अस्ति । एतेषाम् उपग्रहाणां विविधानि गुणफलानि सन्ति चेदपि तत्हेतुना जायमानां भीषामधिकृत्य अधुना वैज्ञानिकाः पूर्वसूचनां ददति॥