OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, January 14, 2023

 जयपुरे साहित्योत्सवः जनुवरि१९ दिनाङ्कादारभ्य प्रचलिष्यति। 

 जयपुरम्> राजस्थानदेशः प्रसिद्धाय जयपूर् साहित्योत्सवाय सुसज्जः अभवत्। अस्मिन् मासस्य १९ दिनाङ्कादारभ्य २३ दिनाङ्कपर्यन्तं क्लार्क्स् अमीर् भोजनालये १६ तमः उत्सवः प्रचलिष्यति। नोबल् पुरस्कारजेता अब्दुल् रसाक् गुर्णा, अन्तर्राष्ट्रिय बुक्कर् पुरस्कारजेत्री गीताञ्जली श्री, चरित्रकारः काट्टि हिक्मान्, अमेरिक्का - कनेडिया लेखकः रुत् ओसेक्कि प्रभृतानां सान्निध्येन सम्पन्नः भविष्यति सहित्योत्सवः। ४०० संख्याधिकाः लेखकाः, चिन्तकाः राष्ट्रिय- सांस्कृतिकमण्डलेषु प्रथिताः च अस्मिन् उत्सवे भागं स्वीकरिष्यन्ति। बालकान् युवकान् च ग्रन्थानां लोकान् प्रति आनयनमेव उत्सवस्यास्य लक्ष्यमिति अधिकारिभिः प्रोक्तम्।