OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, January 12, 2023

 प्रशस्तः अनुवादकः आर् ई आषरः दिवंगतः। 


लण्टनं > विश्वप्रशस्तः  बहुभाषापण्डितः भाषाशास्त्रज्ञः तथा अनुवादकः डो रोणाल्ड् ई आषरः [९६] दिवंगतः। स्कोट्लान्टे एडिन् बरो मध्ये आसीत् तस्यान्त्यम्। 

    १९२६ तमे वर्षे इङ्लण्टे नोट्टिंहामस्थे 'ग्रिंग्लि ओण् द हिल्' नामके ग्रामे लब्धजन्मा अयं यदा लण्टन् विश्वविद्यालये गवेषणछात्रः विद्यमानः तदा भारतस्य वि के कृष्णमेनोन् इत्यस्य कैरलीप्रभाषणमश्रुणोत्। तदैव द्राविडभाषासु कुतुकी भूत्वा भारतं प्राप्य मलयालं, तमिलादिषु द्राविडभाषासु प्रावीण्यं सम्प्राप्तवान्। 

  कैरलीग्रन्थान् अनूद्य  आषरवर्यः मलयाले श्रद्धेयः अभवत्। वैक्कं मुहम्मद बषीरस्य, तकष़ि शिवशङ्करप्पिल्ला वर्यस्य च प्रसिद्धान् ग्रन्थान् आङ्गलं प्रति विवर्तनं कृत्वा मलयालस्य साहित्यप्रपञ्चं विश्वाय परिचायनं कृतवान्। एष्याटिक् सोसैटी संस्थायाः फेलोषिप्, केन्द्रसाहित्य अक्कादम्याः विशिष्टाङ्गत्वं, केरल साहित्य अक्कादम्याः सुवर्णपदकम् इत्यादिभिः बहुभिः पुरस्कारैः सः समादृतः आसीत्।