OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 30, 2023

 जनसंसदः आयव्ययपत्रसम्मेलनं श्वः आरभ्यते; अद्य सर्वदलमेलनम्। 

नवदिल्ली> भारतजनसंसदः आयव्ययपत्रसम्मेलनं मङ्गलवासरे राष्ट्रपतिः द्रौपती मुर्मू इत्यस्यायाः नयख्यापनप्रभाषणेन आरप्स्यते। बुधवासरे वित्तमन्त्रिणी निर्मला सीतारामः आगामिसंवत्सरस्य आयव्ययपत्रम् अवतारयिष्यति।   सोपानद्वयेन विधास्यमाने  अस्मिन् सम्मेलने ६६ दिनेषु २७ उपवेशनानि भविष्यन्ति। प्रथमं सोपानं फेब्रुवरि १३ दिनाङ्कपर्यन्तं भविष्यति। पुनः मार्च् २३ तमदिनाङ्कतः  एप्रिल् ६ पर्यन्तं द्वितीयसोपानात्मकं मेलनं विधास्यति। 

  सम्मेलनस्य अंशतया अद्य समेषां राजनैतिकदलानां मेलनं विधास्यति।