OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 1, 2023

 बनडिक्ट् मार् पाप्पः दिवं गतः। 


वत्तिक्कान्> आगोलकत्तोलिक्का क्रैस्तवसभायाः भूतपूर्वः परमाध्यक्षः बनडिक्ट् षोडशः  [९५] गतदिने प्रादेशिकसमयः प्रभाते सार्धनववादने [भारतसमयः मध्याह्नानन्तरं द्विवादनं] कालयवनिकां प्राप्तवान्। 

  २००५ एप्रिल् १९ तमे दिनाङ्के जोण् पोल् द्वितीयस्य अनुगामिरूपेण मार्पाप्पपदं प्राप्तः बनडिक्ट् वर्यः अनारोग्यहेतुतया २०१३ फ्ब्रुवरिमासस्य २८ तमे स्थानत्यागं कृत्वा विश्रान्तिजीवनं नयन्नासीत्। 

  श्वः आरभ्य गुरुवासरपर्यन्तं सेन्ट् पीटेर्स् चत्वरे सामान्यजनेभ्यः भौतिकशरीरदर्शनाय व्यवस्था कृता। अन्त्येष्टिकर्माणि फ्रान्सिस् मार्पाप्पावर्यस्य कार्मिकत्वे सेन्ट् पीटेर्स् बसलिक्का मध्ये गुरुवासरे भविष्यति।