OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 22, 2023

 जम्मु मध्ये स्फोटनयुगलं - नव व्रणिताः। 

जम्मू> जम्मुनगरसमीपे स्थानद्वये  गतदिने दुरापन्नेन विस्फोटनेन नव नागरिकाः व्रणिताः। भीकराक्रमणमिति सूच्यते। 

  नार्वालनामकस्थाने कस्यचन आपणस्य पुरतः स्थितं स्फोटकवस्तुसम्पूर्णं यानं ह्यः प्रभाते ११. ३० वादने विस्फोटितमभवत्। अर्धहोरानन्तरं ५० मीटर् दूरे द्वितीयं स्फोटनमभवत्। गणतन्त्रदिनोत्सवकार्यक्रमस्य  राहुलगान्धिनः भारत जोडोयात्रायाः जम्मुप्रवेशस्य च आधारे अस्मादाक्रमणात् जनाः भीताः वर्तन्ते।