OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 25, 2023

 उत्तरखण्डस्य सुरङ्गदुर्योगः - कर्मकररक्षणार्थं तीव्रयत्नः अनुवर्तते। 

नवदिल्ली> उत्तरखण्डस्य उत्तरकाश्यां सिल्कार भूगर्भमार्गे लग्नानां ४१ कर्मकराणां रक्षणार्थं तीव्र परिश्रमः १४ दिनानन्तरमपि  अनुवर्तते। समान्तरसुरङ्गस्य वेधक्रियायां 'ओगर्' नामकं  वेधयन्त्रं प्रवर्तनरहितमभवत्। राष्ट्रिय दुरन्तनिवारणसेनया वेधमार्गे जातस्य स्थगनस्य निवारणार्थं प्रयत्नः आरब्धः। 

   सुरङ्गस्य समान्तरं ४६ मीटर् दैर्घ्ये रक्षामार्गः वेधितः। परं १२ - १३ मीटर् परिमितं दूरमवशिष्यते इति दुरन्तनिवारणाधिकारिभिः सूचितम्।