OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 19, 2023

 उत्तरगासायां इन्धनसंभृतवाहनानि प्राप्तुमारब्धानि। 

गासानगरं> इन्धनदुर्भिक्षया अतिसङ्टमनुभूयमाने उत्तरगासाक्षेत्रे इन्धनसंभृतवाहनानि सम्प्राप्तानि। दिनद्वयेन पृथक्कृतायां उत्तरगासायां वार्ताविनिमयबन्धोSपि भागिकतया पुनःस्थापितः। ईजिप्तस्य सीमा राफा नामकप्रदेशद्वारा एव इन्धनवाहनानि आगतानि।

  शुक्रवासरे सम्पन्नया इस्रयेलस्य युद्धकार्यसमित्या प्रतिदिनं १,४०,००० लिटर् परिमितमिन्धनं गासामानेतुं अनुज्ञा दत्ता। अमेरिक्कायाः सम्मर्दमेव एतल्याधारः इति श्रुयते। 

  प्रत्युत, उत्तरगासायां युद्धे तीक्ष्णतया अनुवर्तमाने दक्षिणगासायामपि इस्रयेलेन आक्रमणं तीक्ष्णं कृतम्। खान् यूनिस् नगरे गतदिने २६ जनाः आक्रमणेन मृत्युमुपगताः।