OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 6, 2023

 धूमपटलेषु निलिया नवदिल्ली। श्वासस्थगनेन जनाः। प्राथमिकविद्यालयाः पिधानीकृताः।

      नवदिल्ली> धूमपटलेषु निलियमानायां नवदिल्यां जनाः श्वासस्थगनेन क्लेशमनुभवन्ति। वायुप्रदूषणे वर्धिते सन्दर्भे प्राथमिकविद्यालयाः दिनद्वयं यावत् पिधानीकृताः। विगते वर्षत्रयान्तरे एतावान् प्रदूषितः वायुः नासीत्। इदानीं वायोः शुद्धता ६० इति सुरक्षितमानात् सप्तगुणितं वर्धितं भवति। वहनानाम् आधिक्यात् जायमानात् धूमात् प्रदूषितः भवति वायुः। अपि च हरियाणा - पञ्चाब्  प्रदेशेषु कृषकाः लवनानन्तरं व्रीहीसस्यानि अग्निसात् कुर्वन्तः सन्ति। एषा घटना अपि इदानीन्तन समस्यायाः कारणेषु वर्तते।