OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 10, 2023

 इस्रयेलबलं गासानगरे ; युद्धः हमासस्य गह्वरेषु। 

१३४ गूढान्तर्भौममार्गाः नाशिताः। मरणानि ११,०००।

गासा> युद्धविरामाय लोकराष्ट्राणां अर्थनाभ्यः कर्णमदत्वा इस्रयेलसेना गासानगरं प्राविशत्। गासानगरस्य हृदयस्थाने हमाससेनया सह युद्धः अभवत्। हमासस्य गूढभौमान्तर्मार्गश्रृङ्खलायां युद्धः आरब्ध इति इस्रयेलसेनावक्ता डानियल् हगानि इत्यनेन निगदितम्। 

   बुधावासरपर्यन्तं गासाप्रदेशे उपैकादशसहस्रं जनाः हताः इति पालस्तीनस्य स्वास्थ्यमन्त्रालयेन विज्ञापितम्। तेषु ४३२४ बालकाः भवन्ति। तत्र प्रतिदिनं सामान्यतः १६० बालाः मृत्युवशं गच्छन्तीति विश्वस्वास्थ्यसंघटनेन निगदितम्।

  प्रतिदिनं सहस्रशः पालस्तीनीयाः उत्तरगासातः दक्षिणगासां प्रति पलायनं कुर्वन्ति।