OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 15, 2023

 पाक्किस्थानेन रहसि युक्रैनाय आयुधानि विक्रीतानि इति वार्ता बहिरागता।

  इस्लामाबाद् > रष्यस्य युक्रैनेन  सह युद्धे अनुवर्तमाने सन्दर्भेऽस्मिन् पाकिस्थानेन रहसि युक्रैनाय आयुधानि विक्रीतानि इति वार्ता बहिरागता। ऋणबाधया क्लेशमनुभूयमानेन पाकिस्तानेन आयुधविक्रयणद्वारा३६४ मिल्यन् डोलर् स्वायत्तीकृतम् इति प्रतिवेदनं सूचयति। पञ्चवारम् आयुधैः सह ब्रिट्टणस्य सैनायाः भारवाहकविमानं पाकिस्तानात् रोमानियां प्रति उड्डयनं कृतमिति बि बि सि वार्तासंस्थया आवेदितम्।