OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 5, 2023

 नेपाल भूकम्पः - मरणानि १५७ अभवन्। 

काठ्मण्डु>  नेपालराष्ट्रे शुक्रवासरस्य अर्धरात्रौ दुरापन्ने भूकम्पे १५७ मरणानि दृढीकृतानि। मरणसंख्या वर्धितुं  साध्यता वर्तते। १६०तः अधिके जनाः व्रणिताः इति सूच्यते। रक्षाप्रवर्तनानि अनुवर्तन्ते इत्यतः सङ्कटे निपतितानां संख्या अधिका स्यात्।

  शतशः भवनानि विशीर्णानि। रिक्टर् मापिन्यां ६. ४ अङ्कितस्य दुरन्तस्य अनुस्यूततया १५९ अनुचलनानि जातानि। 

  उत्तरभारतस्य दिल्ली, बिहारं, उत्तरप्रदेशः, मध्यप्रदेशः इत्येतेषु राज्येष्वपि भूप्रकम्पनानि अनुभूतानि। किन्तु जनसङ्कटः न जातः इति आश्वासकरं वर्तते।