OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 19, 2023

 विश्वचषकक्रिकट् क्रीडानाम् अन्तिमपादं अद्य - भारतम् ×  आस्ट्रेलिया । 


अहम्मदाबादः> ४१ दिनरात्राणां क्रिकट् उत्साहस्य अद्य परिसमाप्तिः। ४७ स्पर्धासु अतीतासु मञ्चे अन्तिमस्पर्धायै भारतम् आस्ट्रेलिया च अभिमुखं कुर्वतः। दशकद्वयात् पूर्वं संवृत्तस्य साक्षादनुवर्तनम्। अद्य देशकालभागभाजां च भेदेन पुनरपि अभिमुखम्!

  अद्य मध्याह्नानन्तरं द्विवादने अहमदाबादस्थे नरेन्द्रमोदी अन्ताराष्ट्रिय क्रिकट् क्रीडाङ्कणे रोहित शर्मणा नीयमानं भारतदलं पाट् कमिन्सेन नीयमानेन आस्ट्रेलिया दलेन सह स्पर्धिष्यते। भारतं विजयते चेत् भारतस्य चतुर्था किरीटोपलब्धिः भविष्यति। आस्ट्रेलिया चेत् तेषां षष्ठं किरीटं च।