OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, April 28, 2025

 चरित्रगवेषकः प्रोफेसर् एम् जि एस् नारायणः दिवंगतः। 


  कोष़िकोट्> अन्ताराष्ट्रीयप्रशस्तः   भारतस्य प्रमुखः  चरित्रपण्डितः अध्यापकः च  प्रोफेसर् एम् जि एस् नारायणः दिवंगतः। कोष़िक्कोटस्थे स्वभवने आसीत् तस्य अन्त्यम्। त्रिनवतिवयस्कः आसीत्।

  केरले 'कोष़िक्कोड विश्वविद्यालयस्य'  प्रथमः चरित्रविभागाध्यक्षः आसीत्। १९९० - ९२ कालखण्डे Indian council of historical research इत्यस्य प्रथमः कार्यदर्शी आसीत्। 

  लण्टनं, मोस्को, जापानम् इत्यादिषु स्थानेषु वर्तमानेषु विश्वविद्यालयेषु सन्दर्शकप्राचार्यरूपेण सेवां करोति स्म।