OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 15, 2025

युक्रेनदेशस्य सुमिनगरे रष्यदेशेन प्रक्षिप्ते द्वे बालिस्टिक्-शस्त्रे अपततां, द्वात्रिंशत् जनाः मृताः।

    युक्रेनदेशस्य सुमिनगरे रष्यदेशेन कृतेन विक्षेपशस्त्राक्रमणेन द्वात्रिंशत् जनाः प्राणान् त्यक्तवन्तः। द्वे बालिस्टिक्-शस्त्रे नगरमध्यभागे अपतताम्। एषा घटना ह्यः स्थानीयसमये दशवादने पञ्चदशमिनिटपूर्वं जाता। ओशान-रविवासरस्य निमित्तेन एकत्रितानां भक्तजनानामेव प्रमुखः अपायः जातः। मृतानां मध्ये द्वे स्त्रियौ अपि स्तः इति सूचना। चतुरशीतिः जनाः आहताः अभवन्, तेषु दश बालकाः सन्ति। द्विधा मिसैलाक्रमणेन दशाधिकजनाः मृत्युमुपगताः इति युक्रेनराष्ट्राध्यक्षः व्लादिमीर् सेलेन्स्की उक्तवान्।

     अस्मिन् सप्ताहे युक्रेनस्य सामान्यजनान् लक्ष्यीकृत्य कृतम् एतत् द्वितीयम् आक्रमणम्। एप्रिल्-चतुर्थदिने सेलेन्स्केः जन्मस्थले क्रिवी-रिह् इति नगरे कृतस्य आक्रमणस्य परिणामस्वरूपं विंशतिः जनाः मृताः आसन्। बालिस्टिक्-शस्त्रैः विमानाक्रमणैः च प्रतिरोधं कर्तुं न शक्यते स्म इति सेलेन्स्की अवदत्।