OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 27, 2025

 ऐ एस् आर् ओ संस्थायाः पूर्वाध्यक्षः के कस्तूरिरङ्गः दिवंगतः। 


बङ्गलुरु> ऐ एस् आर् ओ संस्थायाः भूतपूर्वः अध्यक्षः, शैक्षिकविचक्षणः च के कस्तूरिरङ्गः बङ्गलुरुनगरस्थे स्वभवने दिवंगतः अभवत्। पञ्चाशीतिवयस्कः आसीत्। 

 नववर्षाणि यावत् इस्रो सम्स्थायाः अध्यक्षः आसीत् डो  के कस्तूरिरङ्गः। ततः सः राज्यसभायां सदस्यपदम् अलङ्कृतवान्। तस्मिन् सन्दर्भे आसूत्रणसमित्यंगः आसीत्। 

  नरेन्द्रमोदीसर्वकारस्य नूतनशैक्षिकनयस्य समित्यध्यक्षः के कस्तूरी रङ्गवर्य आसीत्। पश्चिमपर्वतसानुसंरक्षणाय नियुक्तस्य आयोगस्य अध्यक्षः आसीदयम्। केन्द्रप्रशासनेन पद्मविभूषणपुरस्कारेण सम्मानितः अयं १९४० तमे वर्षे एरणाकुलं जनपदे लब्धजन्मा अभवत्। पितरौ तु केरलमध्युषितौ तमिलनाट् प्रदेशीयौ आस्ताम्।