OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 22, 2025

 मार्पापावर्यस्य देहवियोगः आविश्वं दुःखसागरे। 

सेन्ट् पीटेर्स् देवालये बुधवासरे सामाजिकदर्शनम्। 


वत्तिकान सिटि> करुणार्द्रप्रेमस्य मूर्तिमद्रूपस्य, फ्रान्सिस् मार्पापावर्यस्य इहलोकवियोगे विश्वस्मिन् सर्वत्र जनाः विश्वासिसमूहश्च दुःखसागरे मग्नाः वर्तन्ते। लोकनेतारः हृदयशोकं प्रकाशितवन्तः। अनुकम्पा, विनयः, आत्मीयता इत्येतेषां प्रकाशमानमूर्तिरासीत् फ्रान्सिस् मार्पापा इति भारतप्रधानमन्त्री नरेन्द्रमोदी प्रावोचत्। 

  "फ्रान्सिस् परमेश्वरस्य धामं प्रतिनिवर्तितवान्" इति  वत्तिकानस्य हर्म्यनिदेशकेन कर्दिनाल् केविन् फेरल् इत्यनेनेन आधिकारिकतया निगदितम्। येशुदेवस्य पुनरुज्जीवनदिने [ईस्टर्], गते रविवासरे पापावर्यः सेन्ट् पीटेर्स् चत्वरे सम्मिलितान् विश्वासिजनान् अभिसम्बोधयति स्म। तदेव तस्य अन्तिमः सामाजिककार्यक्रमः। 

  बुधवासरे पापावर्यस्य भौतिकं शरीरं वत्तिक्कानस्थे सेन्ट् पीटेर्स् देवालये सामाजिकदर्शनाय स्थापयिष्यति। अन्त्यविश्रान्तिस्थानं तु सान्ता मरिया मार्जरि देवालयः भवति।