क्रिकट् क्रीडाक्षेत्रे नूतनः सूर्योदयः।
१४ वयस्कः वैभव सूर्यवंशी।
+ टि-२० स्पर्धायां शतकं प्राप्तवान् न्यूनातिन्यूनतमवयस्कः।
+ ऐ पि एल् चरिते द्वितीयं शीघ्रतमशतकम्।
जयपुरं> भारतीय क्रिकट् मण्डले नूतनतारोदयस्य सूचनां दत्वा १४ वयस्कस्य वैभव सूर्यवंशी नामकस्य कुमारस्य कन्दुकताडनवैभवः। राजस्थान् रोयल्स् दलस्य कन्दुकताडकः अयं ह्यः 'इन्डियन् प्रिमीयर् लीग् [ऐ पि एल्] इत्यस्मिन् गुजरात् टैटन्स् दलं विरुध्य ३५ कन्दुकैः १०० धावनाङ्कान् सम्प्राप्तवान्। १४ वर्षाणि ३२ दिनानि च अस्य वयः।
गतदिने टैटन्स् दलस्य २१० इति विजयलक्ष्यम् अनुधावितस्य रोयल् दलस्य प्रारम्भकः वैभवः ३८ कन्दुकैः १०१ धावनाङ्कान् सम्पाद्य रोयल् दलस्य विजयशिल्पी अभवत्। तस्य शतके ११ षट्काणि, ७ चतुष्काणि चान्तर्भवन्ति।