OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 27, 2025

 पहल्गामभीकराक्रमणे पाकिस्थानस्य भागधेयं  भारतं सप्रमाणं प्रबोधयति।

नवदिल्ली> पहल्गामे भीकरैः कृतायाः नरहत्यायाः पृष्ठभूमौ पाकिस्थानस्य भागभागित्वमस्तीति  विदेशराष्ट्राणि भारतेन सप्रमाणं प्रबोधितानि।  गुप्तान्वेषणसंस्थाभिः उपसंक्रमितानां साङ्केतिकप्रमाणानाम् आधारे अस्ति भारतस्य विश्वासयोग्यं प्रबोधनम्। 

  दृक्साक्षिभिरपि सम्पादितानि प्रमाणानि अपि उपयुज्य पाकिस्थानस्य भागधेयं प्रमाणीकर्तुम् अशक्यत। गतदिनेषु विविधलोकराष्ट्रप्रतिनिधिभिः सह कृते आशयविनिमये आसीत् भारतस्य इदम् उद्बोधनम्।