OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 10, 2025

 मुम्बई-आतङ्काक्रमणस्य बहूनि रहस्यानि तहावूर् राणाय ज्ञातानि, अस्य आनयनं भारतस्य  लाभः - लोकेनाथ-बह्रः।

      मुम्बई-आतङ्काक्रमण-कथायां मुख्यः गूढालोचकः तहावूर् राणायै कठितर-दण्डः भविष्यतीति प्रतीक्षा अस्ति इति पूर्वतनः DGP पदे विराजमानः लोकेनाथ-बह्रः उक्तवान्। राणस्य भारतं प्रति प्रत्यर्पणं  लाभरूपेण गण्यमानम् अस्ति। दोषारोपपत्रं समर्प्य चतुर्दशवर्षेभ्यः अनन्तरं भवति राणस्य भारत-प्रत्यागमनम्।  आक्रमणं कर्तुं अन्ये केचन सहायतां कृतवन्तः किम्? किञ्चित् प्रादेशिक-साहाय्यं प्राप्तम् आसीत् वा? इत्यादीनां विषयाणां अवबोधं सुलभं भविष्यति इति बह्रः उक्तवान्।दोषारोपप्रकरणे  दावीद् कोल्मान् हेड्ली इत्यनयोः  प्रश्नकरणाय अमेरिकादेशं गतवान् आसीत् अयं लोकनाथ् बह्रः। 

     भारताय एषः सुवर्णावसरः प्राप्तः अस्ति। राणाय बहूनि रहस्यानि ज्ञातानि, नवानि नामानि अपि प्रकाशं यास्यन्तीति प्रतीक्षा  अस्ति। राणविरुद्धं बहूनि प्रमाणानि सङ्गृहीतानि। मुम्बई-आक्रमणस्य संबन्धितया एकैकस्य भारतजनस्य मनसि ये प्रश्नाः सन्ति, तेषाम् उत्तरम् अधुना लप्स्यते इत्यपि बह्रः अवदत्।