OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 9, 2025

 केरलेषु सार्वजनीनविद्यालयेषु २४,००० राज्यान्तरछात्राः। 

इतरराष्ट्रेभ्यः प्राप्तवन्तः अपि सन्ति। 

कोच्ची> केरलराज्ये समाप्यमाने शैक्षिकवर्षे एल् पि स्तरादारभ्य उच्चतरस्तरपर्यन्तं सर्वकार-साह्याधिष्ठितविद्यालयेषु अकेरलीयाः २४,०६१ छात्राः अध्ययनं कृतवन्तः। तेषु  बहुभूरिशः केरले वृत्त्यर्थमागतानाम् इतरराज्यस्थानां कर्मकराणां अपत्यानि सन्ति। २७ लक्षम् अतिथिश्रमिकाः केरलमधिवसन्तीति सूच्यते। 

  तमिलनाटीयानां कर्मकराणां ४३२१ अपत्यानि अध्येतृरूपेण सन्ति। असमः, पश्चिमवंगः, बिहारं इत्येतेभ्यः राज्येभ्यः एकैकस्मात् त्रिसहस्राधिके छात्राः सन्ति। आहत्य २४ राज्येभ्यः आगतवन्तः छात्राः सन्ति।  न्यूनातिन्यूनं  छात्राः नागालान्डतः सन्ति - १३।

 इतरराष्ट्रेभ्यः अपि छात्रा‌ः केरलमागत्य अध्ययनं कुर्वन्ति। नेपालतः ३४६, श्रीलङ्का, फिलिपीन्स्,मालिद्वीप राष्ट्रेभ्यश्च छात्राः केरले अध्ययनं कुर्वन्ति। राज्यान्तरछात्रेभ्यः सविशेषपाठ्यपरियोजनाः अपि प्रशासनेन परिपाल्यन्ते।