पहल्गाम आक्रमणं - भीकराः पाकिस्थानेन परिशीलिताः।
श्रीनगरं> जम्मु-काश्मीरस्थे पहल्गामे गतदिने विधत्तायाः नरहत्यायाः पृष्ठभूमिकायां पाकिस्थानस्य भागभागित्वं प्रकाश्यमानं वर्तते। सैनिकवेषेण आगत्य पर्यटकान् विरुध्य भुषुण्डिप्रयोगं कृतवन्तः भीकराः पाकिस्थानेन परिशीलनं लब्धवन्तः इति अन्वेषणसंस्थया निगदितम्।
आक्रमणं कृतवतां त्रयाणां पाक् -भीकराणां रेखाचित्रं ऐ एन् ए संस्थया बहिर्नीतम्। एतैः सह आक्रमणं कृतवन्तौ द्वौ काश्मीरीयौ अपि पाकिस्थाने परिशीलनं लब्धवन्तौ इति सूच्यते। एतेषां भावचित्राणि समाजिकमाध्यमेषु प्रचरन्ति।
आक्रमणं कृतवन्तः 'दि रसिस्टन्स् फ्रन्ट्' इति भीकरसंघटनस्य प्रवर्तकाः सैन्येन वलयीभूताः इति वृत्तान्तमस्ति।