OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 16, 2025

 १२,५०० वर्षेभ्यः पूर्वं वंशनाशमापन्नस्य घोरवृकस्य [Direwolf] जनितकतन्त्रविज्ञानेन पुनर्जन्म! 

जनितकतन्त्रविज्ञानीयेन पुनर्जन्म लब्धवन्तौ घोरवृकशाबकौ। 

टेक्सास् >  १२,५०० वर्षेभ्यः पूर्वं वंशविनाशमापन्नम् इति विश्वास्यमानाय घोरवृकविभागाय [Direwolf] शास्त्रज्ञैः जनितकतन्त्रविज्ञानेन पुनर्जन्म दत्तम्। टेक्सास् आस्थानत्वेन वर्तमानया कोलोसल् बयोसयन्सस् इति संस्थया इयमुपलब्धिरापन्ना।

  रोमुलस् , रमस् इति कृतनामधेययोः एतयोः वृकशाबकयोः षण्मासानां वयः अस्ति। २०२४ ओक्टोबर् प्रथमदिनाङ्के लब्धजन्मनोः एतयोः इदानीं चतुर्पादमितं दैर्घ्यं ३६ किलोमितं भारश्च अस्ति।

  पुरातनकाले उत्तरामेरिकायां विहृतवान् जीविवर्गः आसीत् घोरवृकः। अधुनातनकालीनस्य वृकवर्गादपेक्षया बृहत्, घनरोमायुतः, विस्तृतचिबुकास्थियुक्तश्चासीत् अयं जीविवर्गः। घोरवृकस्य पुनरुज्जीवने अस्य 'पुरातन डि एन् ए अंशः, क्लोणिङ्, जनितकसन्निवेशः इत्येते प्रयोजकीभूताः इति कोलोसल् बयोसयन्स् संस्थया प्रोक्तम्।