OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 23, 2025

 काश्मीरे भीकराणां नरहत्या।

भुषुण्डिप्रयोगेण २६ विनोदसञ्चारिणः हताः। 

+ पुल्वामप्रकरणानन्तरं बृहत्तमम् आक्रमणम्। 

+ उत्तरदायित्वं स्वीकृत्य टि आर् एफ् इति संघटनम्। 

दुरन्तस्थानं प्रति सुरक्षाभटानां विन्यासः। 

श्रीनगरं> किञ्चित्कालविरामानन्तरं जम्मु काश्मीरे सामान्यजनान् लक्ष्यीकृत्य भीकराणाम् आक्रमणम्। ह्यः अनन्तनागजनपदस्थे पहल्गाम् इत्यत्र बैसरणं सन्द्रष्टुमागतानां विनोदसञ्चारिणां विरुध्य कृतेन भुषुण्डिप्रयोगेण २६ सामान्यजनाः निहताः। १५ जनाः क्षताः। तेषु पञ्चानामवस्था तीव्रतरा इति सूच्यते। 

  २०१९ तमे वर्षे आपन्नस्य  पुल्वामभीकराक्रमणस्य अनन्तरं भारते जायमानं बृहदाक्रमणं भवत्येतत्। मङ्गलवासरे मध्याह्नानन्तरं त्रिवादने पहल्गामतः षट् किलोमीटर् दूरे बैसरणं नामिकामधित्यकां सन्द्रष्टुं प्राप्तवतां जनान् लक्ष्यीकृत्य सैनिकवेषेण आगताः सप्त भीकराः अनिर्गलतया  भुषुण्डिप्रयोगं कृतवन्तः। 

  हताः विनोदसञ्चारिणः विविधराज्येभ्यः प्राप्तवन्तः सन्ति। केचन विदेशीयाः अपि तेषु अन्तर्भवन्तीति सूच्यते। एन् ऐ ए संस्थया प्रकरणस्य अन्वेषणं स्वीकृतम्।