केरले उन्मादकवस्तूपयोगप्रकरणे चलच्चित्रप्रवर्तकाः गायकप्रमुखश्च निगृहीताः।
कोच्ची> केरले उन्मादकवस्तूपभोगं विरुध्य प्रशासनस्य प्रक्रमाः अनुवर्तन्ते। गतेषु कतिपयदिनेषु चलच्चित्रमण्डले युवतायाः आराधकपात्रत्वेन वर्तमानाः अभिनेतारः, निदेशकाः, गायकश्च जनपदीयलहरिविरुद्धसेनायाः [DANSAF - District Anti Narcotics Special Action Force] आरक्षकदलस्य च अवस्कन्दे निगृहीताः।
षैन् टों चाक्को, श्रीनाथ भासी इत्येतौ युवकाभिनेतारौ आरक्षकैः निगृह्य परिपृच्छाद्याः क्रियाविधयः स्वीकृताः।
गतदिने कोच्चिस्थात् वासस्थानात् प्रमुखौ द्वौ चलच्चित्रनिदेशकौ तयोः सुहृच्च विशिष्टोत्पादितेन [High breed] गञ्जमादकेन सह निगृहीताः। तथा च सामाजिकमाध्यमैः युवकेषु सुप्रतिष्ठामाप्तवान् 'राप्'गायकः वेटन् इत्याहूयमानः हिरण् दास् मुरलि नामकः अद्य आरक्षकैः निगृहीतः।